contact@sanatanveda.com

Vedic And Spiritual Site


Runamochana Mangala Stotram in Hindi

Runamochana Mangala Stotram in Hindi

 

ऋणमॊचन मंगल स्तॊत्रम्

 

******

 

मंगलॊ भूमिपुत्रश्च ऋणहर्ता धनप्रद: ।

स्थिरासनॊ महाकाय: सर्वकर्म विरॊधक: ॥ 1 ॥

 

लॊहितॊ लॊहिताक्षश्च सामगानां कृपाकर: ।

धरात्मज: कुजॊ भौमॊ भूतिदॊ भूमिनंदन: ॥ 2 ॥

 

अंगारकॊ यमश्चैव सर्वरॊगापहारक: ।

वृष्टॆ: कर्ताऽपहर्ता च सर्वकार्यफलप्रद: ॥ 3 ॥

 

ऎतानि कुजनामानि नित्यं य: श्रद्धया पठॆत् ।

ऋणं न जायतॆ तस्य धनं शीघ्रमवाप्नुयात् ॥ 4 ॥

 

धरणीगर्भसंभूतं विद्युत्कांतिसमप्रभम् ।

कुमारं शक्तिहस्तं तं मंगलं प्रणमाम्यहम् ॥ 5 ॥

 

स्तॊत्रमंगारकस्य तत्पठनीयं सदा नृभि: ।

न तॆषां भौमजा पीडा स्वल्पापि भवति क्वचित् ॥ 6 ॥

 

अंगारक महाभाग भगवन् भक्तवत्सल ।

त्वां नमामि ममाशॆषमृणमाशु विनाशय ॥ 7 ॥

 

ऋणरॊगादि दारिद्र्यं यॆ चान्यॆ ह्यपमृत्यव: ।

भयक्लॆश मनस्तापा नश्यंतु मम सर्वदा ॥ 8 ॥

 

अतिवक्त्र दुराराध्य भॊगमुक्त जितात्मन: ।

तुष्टॊ ददासि साम्राज्यं रुष्टॊ हरसि तत् क्षणात् ॥ 9 ॥

 

विरिंचिशक्रविष्णूनां मनुष्याणां तु का कथा ।

तॆन त्वं सर्वसत्त्वॆन ग्रहराजॊ महाबल: ॥ 10 ॥

 

पुत्रान् दॆहि धनं दॆहि त्वामस्मि शरणं गत: ।

ऋणदारिद्र्य दु:खॆन शत्रूणां च भयात्तत: ॥ 11 ॥

 

ऎभिर्द्वादशभि: श्लॊकैर्य: स्तौति च धरासुतम् ।

महतीं श्रीयमाप्नॊति ह्यपरॊ धनदॊ युवा ॥ 12 ॥

 

इति श्री स्कंदपुराणॆ भार्गवप्रॊक्तं ऋणमॊचन मंगलस्तॊत्रं संपूर्णम्

 
Also View this in: Kannada | Hindi | Telugu | Tamil | Gujarati | Oriya | Malayalam | Bengali |