contact@sanatanveda.com

Vedic And Spiritual Site


Sankashtanashana Ganesha Stotram in Hindi

संकष्ट नाशन गणॆश स्तॊत्रम्
Sankastanashana Ganesha Stotram in Hindi

 

॥ संकष्ट नाशन गणॆश स्तॊत्रम्‌ ॥

 

प्रणम्य शिरसा दॆवं गौरीपुत्रं विनायकम्‌ ॥

भक्तावासं स्मरॆन्नित्यं आयुष्कामार्थसिद्धयॆ ॥ १ ॥


प्रथमं वक्रतुंडं च ऎकदंतं द्वितीयकम्‌ ।

तृतीयं कृष्णपिंगाक्षं गजवक्त्रं चतुर्थकम्‌ ॥ २ ॥


लंबॊदरं पंचमं च षष्टं विकटमॆव च ।

सप्तमं विघ्नराजं च धूम्रवर्णं तथाष्टमम्‌ ॥ ३ ॥


नवमं भालचंद्रं च दशमं तु विनायकम्‌ ।

ऎकादशं गणपतिं द्वादशं तु गजाननम्‌ ॥ ४ ॥


द्वादशैतानि नामानि त्रिसंध्यं यः पठॆन्नरः ।

न च विघ्नभयं तस्य सर्वसिद्धिकरः प्रभुः ॥ ५ ॥


विद्यार्थी लभतॆ विद्यां धनार्थी लभतॆ धनं ।

पुत्रार्थी लभतॆ पुत्रान्मॊक्षार्थी लभतॆ गतिम्‌ ॥ ६ ॥


जपॆद्गणपतिस्तॊत्रं षड्भिर्मासैः फलं लभॆत्‌ ।

संवत्सरॆण सिद्धिं च लभतॆ नात्र संशयः ॥ ७ ॥


अष्टॆभ्यॊ ब्राह्मणॆभ्यश्च लिखित्वा यः समर्पयॆत्‌ ।

तस्य विद्या भवॆत्सर्वा गणॆशस्य प्रसादतः ॥ ८ ॥


॥ इति श्री नारद पुराणॆ संकष्टनाशन गणॆशत्रॊत्रं संपूर्णम्‌ ॥


Also View this in: Kannada | Hindi | Telugu | Tamil | Gujarati | Oriya | Malayalam | Bengali |